SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सुसंप्रगृहीता येते तथा तेषां, तोणत्ति-शरभस्त्राः सह कण्टकैः-कवचैर्वशैश्च वर्तन्ते ये ते तथा तेषां, सचापा:-धनुर्युक्ता ये शराः प्रहरणानि च-खड्गादीनि आवरणानि च-शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, 'लउड'त्ति लकुटाः। अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सजंच-प्रगुणं युद्धस्येति गम्यते, पादातानीकं-पदातिकटकं हारावस्तृतं सुकृतरतिकविहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, 'पहारेत्थ गमणयाए'त्ति गमनाय प्रधारितवान्-संप्रधारितवान् , 'मह'त्ति महान्तः अश्वाः, अश्वधराः ये अश्वान् धारयन्ति, नागा-हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, कचिद्वरा इति पाठः, तत्राश्वा | नागाश्च किंविधाः ?-अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा रथा रथसंगिणेल्ली-रथमाला कचित् रहसंगेल्लीति पाठः तत्र रथसङ्गेल्ली-रथसमूहः । 'तए णं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सबिड्डीए'त्यादि दोहदावसरे व्याख्यातं, शङ्खः प्रतीतः, पणवो-भाण्डानां पटहः पटहस्तु प्रतीत एव भेरी-ढक्काकारा झल्लरी-वलयाकारा खरमुही-12 काहला हुडुक्का-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन, अर्थाथिनो-द्रव्यार्थिनः कामार्थिनः-शब्दरूपार्थिनः भोगार्थिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्विषिकाः-पातकफलवंतो निःस्वान्धपङ्ग्वादयः कारोटिकाः- कापालिकाः करो-राजदेयं द्रव्यं तद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः-पीडिता येते करबाधिताः, शंख-1 वादनशिल्पमेषामिति शालिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शालिकाः, चक्र प्रहरणमेषामिति चाक्रिकाःयोद्धारः चक्र वास्ति येषां ते चाक्रिका:-कुम्भकारतैलिकादयः चक्र वोपदय याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy