________________
शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह-"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥" संलापो-मिथो भाषा उल्लाप:-काकुवर्णनं, आह च-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काका वर्णनमुल्लापः, संलापो भाषणं मिथः ॥१॥" इति । 'आमेलगति आपीड:-शेखरः स च स्तन:-प्रस्तावाचुचुकस्तत्प्रधानौ आमेलको वा-परस्परमीषत्सम्बद्धौ यमलौ-समश्रेणिस्थितौ युगलौ-युगलरूपी द्वावित्यर्थः वर्त्तितौ-वृत्तौ अभ्युन्नती-उच्चौ पीनौ-स्थूलौ रतिदौ-13 सुखप्रदौ संस्थितौ-विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमं च रजतं च कुन्दश्चन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छत्र, नानामणिकनकरत्नानां महार्हस्य महार्घस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओत्ति दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सदृशे ये ते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभा-चन्द्रकान्तमणिः, तालवृन्तं-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या-आकारण समानः-सदृशो यः स तथा तं भृङ्गारं, 'एगे'त्यादि, एक:-सदृशः आभरणलक्षणो गृहीतो निर्योगः-परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति ।। 'तएणते कोडंबियवरतरुणपुरिसा सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्तः, 'अट्ठमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये बाहुः-अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए'ति तेषां विवक्षितानां
SE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org