________________
ज्ञाताधर्मकथाङ्गम्. ॥ ५६ ॥
त्यादि, 'महरिहेणं' ति महतां योग्येन महापूजेन वा हंसस्येव लक्षणं-स्वरूपं शुक्लता इंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको वस्त्रमात्रं स च पृथुल: पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे'ति वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । 'एस णं' ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु - राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु - पुत्रजन्मसु तिथिषु - मदनत्रयोदशीप्रभृतिषु क्षणेषु - इन्द्रमहादिषु यज्ञेषु - नागादिपूजासु पर्वणीषु च - कार्त्तिक्यादिषु अपश्चिमं - अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिमं - पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः । 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं - अवतरणं यस्मात्तदुत्तरापक्रमणं - उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोचंपि' द्विरपि 'तचंपि' त्रिरपि 'श्वेतपीतैः' रजतसौवर्णैः 'पायपलंय'ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः, 'तुडियाई' ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाहाभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तकं' हस्ताङ्गुलिसंबन्धि मुद्रिकादशकं 'सुमणदामं 'ति पुष्पमालां पिनद्ध्यतः - परिधत्तः | दर्दर:- चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयोगन्धास्तान् पिनद्ध्यतः, हारादिखरूपं प्राग्वत्, ग्रन्थिमं- यद्बध्यते सूत्रादिना वेष्टिमं यद्वथितं सद्वेष्यते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं - येन वंशशलाकामयपञ्जरका दि कूर्चादि वा पूर्यते सांयोगिकं यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कृतंकृतालङ्कारं, विभूषितं - जातविभूषं । 'सद्दावेह जाव सद्दाविति' 'एगा वरतरुणी त्यादि शृङ्गारस्यागारमिव शृङ्गारागारं अथवा
Jain Education International
For Personal & Private Use Only
१ उत्क्षिप्तज्ञाते मे
घदीक्षा महोत्सवः
सू. २४
॥ ५६ ॥
www.jainelibrary.org