________________
बविउलभवणसयणासणजाणवाहणाइन्न' विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपायाः संप्रयुक्ता-व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविछेद वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ गोमहिषीगवेलगप्रभूतश्चेति समासः, गवेलका-उरभ्राः, 'पडि-| पुण्णजंतकोसकोट्ठागाराउहागारे' यत्राणि-पाषाणक्षेपयत्रादीनि कोशो-भाण्डागारं कोष्ठागारं-धान्यगृहं आयुधागारं-प्रहरण-| शाला, 'बलवं दुबलपचामित्ते प्रत्यमित्रा:-प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं कण्टका:प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्ट
M AH I MA मालपटय अवयकट्य अकटय' कण्टका कमिति, एवं 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, 'ववगयदुभिक्खमारिभयविप्पमुकं खेम सिवं सुभिक्खं पसंत-| डिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वात् न पुनरुक्ततादोषोऽत्र 'रजं पसाहेमाणे विहरइति । 'जाया'इति हे| जात ! पुत्र 'किं दलयामो'त्ति भवतोऽनभिमतं किं विघटयामो विनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्यः किं दद्मः, तथा भवते एव किं प्रयच्छामः?, 'किं वा ते हियइच्छियसामत्थे'त्ति को वा तव हृदयवाञ्छितो मत्र इति 'कुत्तियावणाउत्ति देवताधिष्ठितत्वेन वर्गमर्त्यपाताललक्षणभूत्रितय संभविवस्तुसंपादक आपणो हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च नापितं [] शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहाव-भाण्डागारात् "निके'त्ति सर्वथा विगतमलान् 'पोत्तियाइत्ति वस्त्रेण महरिहे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org