________________
रोधः
ज्ञाताधर्म
प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं सद्भूतं वा नास्मादुत्तरं-प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह-कैव-1 उत्क्षिप्तकथाङ्गम्.
लिकं-केवलं-अद्वितीयं केवलिप्रणीतखाद्वा कैवलिकं प्रतिपूर्ण-अपवर्गप्रापकैर्गुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः ज्ञाते दीन्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं-सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः शल्यानि-मायादीनि कृन्ततीतिक्षायां माशल्यकर्तनं सेधनं सिद्धिः-हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्गः-अहितकर्मविच्युतेरुपायः यान्ति तदिति यानं निरु-श तापितृपमं यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमिति सर्वदुः-12 खप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा दृष्टि:-बुद्धिर्यसिन्निग्रन्थे प्रवचने-चारि-1 सू. २४ पालनं प्रति तदेकान्तदृष्टिकं, अहिपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः-दृक् यस्य स एकान्तदृष्टिकः, क्षुरप्र इव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा | लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करं चरणमिति भावः, वालुकाकवल इव निरा| स्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं-आ-18
क्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि ऋमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिक। बलम्बयितव्यं-अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भावः, असिधारायां सञ्चरणीयमित्येवं रूपं यदर्त-नियम-|
स्तदसिधाराव्रतं चरितव्यं-आसेव्यं यदेतत्प्रवचनानुपालनं तदेतदुष्करमित्यर्थः, कसादेतस्य दुष्करखमत उच्यते-'नो य
SONOSROPOROSECOSRece
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org