SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अट्ट तुज्झगुणवल्लहाओ-गुणैवल्लभा यास्तास्तथा 'भजाओ उत्तमाओ निच्चं भावाणुरत्ता सवंगसुंदरीओ'त्ति 'माणुस्सगा कामभोग'त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणखात् वान्त-चमनं तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो-निष्ठीवनं शुक्र-सप्तमो धातुः शोणितं-रक्तं दूरूपाणि-विरूपाणि यानि मूत्रपुरीषपूयानि बहुप्रतिपूर्णाः उच्चारः-पुरीषं प्रस्रवणं-मूत्रं खेलः-प्रतीतः सिंघानो-नासिकामलः वान्तादिकानि प्रती| तान्येतेभ्यः संभवः-उत्पत्तिर्येषां ते तथा 'इमे य ते'इत्यादि, इदं च ते आर्यका-पितामहः प्रार्यक:-पितुः पितामहः पितृ-12 प्रार्यक:-पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकार्यकपितॄणां यः पर्यायः परिपाटिरित्यनान्तरं | तेनागतं यत्तत्तथा, 'अग्गिसाहिए त्यादि, अनेः स्वामिनश्चं साधारणं 'दाइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपा-18 रवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-'अग्गिसामण्णे'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं-वर्णादिविनाशः विध्वंसनं च | प्रकृतेरुच्छेदः धर्मो यस्य तत्तथा, 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बहीभिः विषयाणांशब्दादीनामनुलोमा:-तेषु प्रवृत्तिजनकखेन अनुकूला विषयानुलोमास्ताभिः आख्यापनाभिश्च-सामान्यतः प्रतिपादनैः प्रज्ञाप-| नाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्च-संबोधनाभिर्विज्ञापनाभिश्च-विज्ञप्तिकाभिश्च सप्रणयप्रार्थनः, चकाराः समुच्चयार्थाः, आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादिविषयाणां परिभोगनिषेधकलेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति यास्ताः संयमभयोद्वेगकारिकाः-संयमस्य दुष्करखप्रतिपादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्ती एवमवादिष्टाम्-'निग्गन्थे त्यादि, निग्रन्थाः-साधवस्तेषामिदं नैर्ग्रन्थं Jain Education International For Personal & Private Use Only bow.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy