________________
च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह' परलोकचिन्तायाम् एकेषां केषाञ्चिद् 'आख्यातं' भाषितं, यथा किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति–'अपरिग्रहाः' न विद्यते धर्मोपकरणादृते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान् 'भिक्षुः'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं' शरणं परिः-समन्ताद्जेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः सूचितः, तदेवमुद्गमदोषरहितं ग्रस्थत इति ग्रासः-आहारस्तमेवंभूतम् 'अन्वेषयेत्' मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान्' संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यनिःश्रेयसबुद्ध्या दत्तमिति, अनेन षोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेव
म्भूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः 'एषणां' ग्रहणैषणां 'चरेद' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परि॥ गृहीता इति मन्तव्यं, तथा 'अगृद्धः' अनध्युपपन्नोऽमूञ्छितस्तसिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च प्रासैषणादोषाः पञ्च | निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं परावमदर्शिखं 'परिवर्जयेत्' परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्यादिति भावः ॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किजुवमा य चउत्थे' इत्येतत्प्रदर्वेदानीं परवादिमतमेवोद्देशाधिकाराभिहितं दर्शयितुमाह
सुत्रकृ.९ JainEducationIALI
For Personal & Private Use Only
Allainelibrary.org