SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ | तं च भिक्खू परिन्नाय, वियं तेसु ण मुच्छए । अणुक्कस्से अप्पलीणे, मझेण मुणि जावए ॥२॥ अस्स चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तीर्थिका असुरस्थानेषु किल्विषा जायन्त' इति, किमिति | यत एते जिताः परीषहोपसर्गः, परम्परसूत्रसंबन्धस्वयम्-आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपि बुध्येत—यथैते ४ पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसगैः कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यै| रपि सूत्रः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसंबन्धस्यास्य सूत्रस्येदानी व्याख्या प्रतन्यते-'एत' इति पञ्चभूतकात्मतज्जीवतच्छरीरा| दिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाचं 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलम|| हामोहोत्थाज्ञानेन च 'भो' इति विनेयामन्त्रणम् एवं खं गृहाण यथैते तीथिका असम्यगुपदेशप्रवृत्तवान्न कस्यचिच्छरणं भवि-| तुमर्हन्ति न कश्चित्रातुं समर्था इत्यर्थः, किमित्येवं ?, यतस्ते बाला इव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किञ्चनका| रिणो भाषिणच, तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो | 'जत्थ बालेऽवसीयह'त्ति 'यत्र' अज्ञाने 'बाल:' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित्राणायेति । यच्च तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति—'हित्वा'त्यक्खा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्खजनादिभिः संयोगस्तं त्यक्त्वा किल वयं निःसङ्गाः प्रबजिता इत्युत्थाय पुनः सिता-बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया'| इति आर्षखाद्बहुवचनेन व्याख्यायते 'स्युः भवेयुः कृत्यं कर्तव्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः dain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy