________________
सूत्रकृताङ्गं शीलाङ्काचार्ययचितं
॥ ४७ ॥
पत्तकर्मपाशावशापि (पाशि ) ता : पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि — नेन्द्रियैरनियमितैर शेष द्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयते साऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, याऽपि च तेषां बालपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति- 'कल्पकालं' प्रभूतकालम् 'उत्पद्यन्ते' संभवन्ति आसुरा:असुरस्यानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? – 'किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुः सामर्थ्याद्युपेताश्च भवन्तीति । इति उद्देशक परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ १६ ॥ ७५ ॥ इति समयाख्याध्ययनस्य तृतीयोदेशकः समाप्तः ॥
अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते ॥
उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसंबन्धः - अनन्तरोद्देश केऽध्ययनार्थखात्स्वपरसमयवक्तव्यतोहापि सैवाभिधीयते, अथवाऽनन्तरोदेश के तीर्थिकानां कुत्सिताचारवमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनाऽऽयातस्या| स्योद्देशकस्योपक्रमादीनि चखार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सुत्रमुच्चारणीयं तच्चेदम् -
एते जिया भो ! न सरणं, बोला पंडियमाणिणो । हिच्चा णं पुवसंजोगं, सिया किञ्चोवरसगा ॥१॥
१ तायात प्र० २ जत्थ वालेऽवसीय प्र० ।
Jain Education International
For Personal & Private Use Only
sese
१ समया०
उद्देशः ४ कृत्योपदे
शवि०
॥ ४७ ॥
www.jainelibrary.org