SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ceoeceaeeeeeeeeeeeeeee सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥१५॥ असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया ॥१६॥ इति बेमि इति प्रथमाध्ययने तृतीयोदेशकः ॥ गाथा ग्रं. ७५॥ ये ह्यस्सदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽसिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागं कृता 'सिद्धाश्च' अशेषद्वन्द्वरहिता अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम् , अनेकशारीरमानसद्वन्द्वैन स्पृश्यन्ते, शरीरमनसोरभावा| दिति, एवम् 'इह' अस्मिन् लोके सिद्धिविचारे वा 'एकेषां शैवादीनामिदम् 'आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेव पुरस्कृत्य' मुक्तिमेवाङ्गीकृत्य 'स्वकीये आशये' स्वदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूला युक्तीः प्रतिपादयन्ति, नरा इव नराः-प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तम्-'आग्रही बत निनीषति युक्तिं, तत्र यंत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ॥ १॥" ॥ १५॥ साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह| ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि 'असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यसाकं लाभ इन्द्रियानुरोधेन सर्वविषयोपभोगादू, अमुत्र मुक्त्यवाप्से, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति खदुश्चरितो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy