SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एतदेव प्रश्नपू. र्वकं दर्शयितुमाह -'कस्स णं हेउ'मित्यादि, सुगमं यावत्रसकाये समुत्पन्नानां स्थानमेतदधात्यम् -अघातार्ह, तत्र विरतिसभावादित्यभिप्रायः । ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान् कायः-शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) ते प्राणिनखसा बहुतमा-भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, त्रसानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पचेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति संबन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयं वदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगम यावत् णोणेयाउए भवईत्ति ॥ साम्प्रतं त्रसानां स्थावरपर्यायापन्नानां व्यापादनेनापि न व्रतभङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह sesesereeroeseseseseseseroticececeA भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वुत्तपुत्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइए, एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसिणं आमरणंताए दंडे णो णिक्खित्ते, केई चणं समणा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy