SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥४१६॥ समुत्पद्यन्ते तेषां च त्रसानां सर्वेषां स्थावर कायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते, तेन श्रावकेण स्थावर कायवधनिवृत्तेरकर - णाद्, अतः सर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा - केनचिद्रतमेवंभूतं गृहीतं यथा - मया नगरनिवासी न हन्तव्यः, तच्चोद्वसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, एवमत्रापि सर्वेषां त्रसानामभावान्निर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह – सद्वाचं सवादं वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा - नो खल्वायुष्मन्नुदक ! अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादिप्रसिद्धं संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्माकं संबन्धिना वक्तव्येन नैतदशोभनं किं तर्हि ?, | युष्माकमेवानुप्रवादेनैतदशोभनं इदमुक्तं भवति - अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि--नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत - सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते इदमुक्तं भवति - यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पच्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिहियते —तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः - स चायं भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते | यस्मिन्पर्याये - अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभित्रसत्वेन भूतैः - उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः - परित्यक्तः, इदमुक्तं भवति — यदा Jain Education International For Personal & Private Use Only ७ नाल न्दीयाध्य श्रावकप्रत्याख्यानस्य सविष यता ॥४१६॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy