SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ वृत्तकर्णतालस्त्रिः प्रदक्षिणी ककुमारतपोऽनुभावाद्वन्धनोन्मुक्त महादसा वनहस्ती ताग्विधाच्छना- यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमाककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गवा बन्दामीत्येवं यावदसी हस्ती कृतसंकल्प तावत्रटनटदिति त्रुटितसमस्तवन्धनः सन्नाककुमाराभिमुखं प्रदत्त कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिक् कष्टं हतोऽयमाईककु-10 18 मारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्ति-18 18 संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहित-8 मनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । तदेवमाककुमारतपोऽनुभावाद्वन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छवाच्छेद्याच्छृङ्खलाबन्धनायुष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज! नैत-18 दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राइनियुक्तिगाथया प्रदर्शितं । सा चेयं-18 "ण दुकरं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं ! । जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहाइ मोयणं ॥१॥ एवमाककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गवाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि | पश्चापि शतानि प्रव्राज्य तच्छिष्यखेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से'त्यादि, 'बुद्धः॥४ | अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया तदागमेन इमं 'समाधि' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्टु स्थिता || 81 मनोवाकायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आ तः, अपि खेतदुष्कर जहा उ चत्तावलिशाक्तमरनिर्भर आसांचो मत्यादि, 'बुद्धः' Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy