SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ मूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०४॥ ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ॥ ५५ ॥ त्तिबेमि, इति अद्दइज्जणाम छट्ठ आद्रेकीमज्झयणं समत्तं ॥ या० संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पश्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचखारिंशद्दोषरहितमाहा| रमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो | भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधेन प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक'मिति स्वल्पं यसात् नन्ति ततस्तेऽपि दोपरहिता इति ॥५३॥ साम्प्रतमार्द्रककुमारो हस्तितापसान्दूपयिखा तदुपदेष्टारं दूषयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां-यतीनां व्रतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये प्रन्ति ये चोपदिशन्ति तेऽनार्याः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमार्षवात् , न तादृशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि धाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्ट्रभिन दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं ॥४०४॥ गच्छ न्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत्-यथाऽयमार्द्रककुमारोपाकृताशेषतीथिको निष्प्रत्यूह सर्वज्ञपादपद्मान्तिकं वन्दनाय ब्रजति तथाऽहमपि ॥ dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy