________________
णे य तस्स तनिमित्तो बन्धो सुहुमोवि देसिओ समए । अणवजो उ पयोगेण सवभावण सो जम्हा ॥२॥" स्वमान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति । तदेवं मनसोऽपि क्लिष्टस्सैकस्यैव | व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञानमित्यादि तत्सर्वे प्लवत इति, यदप्युक्तं-'पुत्रं पिता समारभ्ये'त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्वयापादयति, एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ?, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोऽत्रेति । यदपि च तैः कचिदुच्यते-यथा 'परव्यापादित-|| | पिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तप्रलपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभ-18 क्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम्-"अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥" यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैर| कारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति ॥ २९॥ अधुनैतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाह-'इत्येताभिः' पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्युवगमैस्ते वादिनः 'सातगौरवनि:श्रिताः सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् 'इति' एवं मन्यमाना विपरीतानुष्ठानतया 'सेवन्ते' कुर्वते 'पापम्' अवद्यम्, एवं वतिनोऽपि सन्तो जना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः ॥३०॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा १ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दिष्टः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ॥ २॥
Jain Education
a
l
For Personal & Private Use Only
Irellanelibrary.org