________________
सूत्रकृताङ्गं शीलाङ्काचाययवृ
तियुतं
॥ ३९ ॥
एवं तु समणा एगे, मिच्छदिट्ठी अणारिया । संसारपारकंखी ते, संसारं अणुपरियहंति ॥ ३२ ॥ ( गाथा ॥ ५९ ॥ ) तिबेमि । इति प्रथमाध्ययने द्वितीयोदेशकः ॥
ये हि कुतश्चिन्निमित्तात् 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति 'तेषां' वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं - यथा केवलमनः प्रद्वेषेऽपि 'अनवद्य' कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदर्थाभिधायितं, यतो न ते संवृतचारिणो, मनसोऽशुद्धखात्, तथाहि — कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहित केवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापि कायचेष्टारहितस्याकारणत्त्रमुक्तं, सत्यमुक्तम्, अयुक्तं तूक्तं यतो भवतैव एवं भावशुद्धया निर्वाणमभिगच्छती 'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं - "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते || १||” तथाऽन्यैरप्यभिहितं - "मतिविभव ! नमस्ते यत्समत्वेऽपि पुंसां, परिणमसि शुभांशैः कल्मषांशैस्त्वमेव । नरकनगवर्त्म प्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये ॥ १॥ तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथेर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तखादबन्धक एव, तथा चोक्तम् - " उच्चालियंमि पाए इरियासमियस्स संकमद्वाए । वावज्जेज कुलिंगी मरेज तं जोगमासज ॥१॥
१ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥ १ ॥
Jain Education International
For Personal & Private Use Only
१ समया
उद्देशः २
कर्मचाभाववादि
फलं
॥ ३९ ॥
www.jainelibrary.org