________________
भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-अस्मिन्नेवभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽसत्पक्षे युष्मदापादितो दोष इति ॥ ३१ ॥ अधुना पिण्याके पुरुषबुद्ध्या असंभवमेव दर्शयितुमाह-'पुरिसे'त्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपग- | मेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमखा हतेऽपि नास्ति दोष इत्येवं वदेत , तथाहि-क:
संभवः पिनाकपिण्ड्यां पुरुषबुद्धरित्यतो वागपीयमीगसत्येति सत्त्वोपघातकखात् , ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया 18 बयते, तसात्पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरुणा साशकेन प्रवर्तितव्यमिति ॥३२॥ किश्चान्यत्-वाचाभियोगो | वागभियोगस्तेनापि 'यद्' यसादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं || | ततोऽस्थानमेतद्वचनं गुणानां, न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् 'उदारं' सुष्टु परिस्थूरं निःसारं निरुपपत्तिकं वचनं|
ब्रूयात् , तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एववाऽलाबुकमिति ॥३३॥ साम्प्रतमार्द्र| ककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिषुराह-लद्धे' इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे
सति लब्धोऽर्थो-विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवं9 भूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टं, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ |
इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्वालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो | यथैतद्भावाभावं प्राक्कल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दूषयिता स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त
Jain Education
a l oral
For Personal & Private Use Only
ww.jainelibrary.org