SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोणिनिप्रत्यये रूपं, मोक्षं प्रति गमनशील इत्यर्थः, त्रायी वा आसन्नभव्यानां त्राणकरणात् , तथा 'ज्ञाती' ज्ञाता:-क्षत्रिया ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति ? ॥२४ ॥ साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधुपभोगं कुर्वन्नप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह| असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्तनादतोऽसौ भगवानहिंसकः, तथा सर्वेषां प्रजायन्त इति प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंरूपं धर्मे'परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणैः, एतच्चाबोधेः-अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तन द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समखापादनमिति ॥२५।। साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वापान्तराले शाक्यपुत्रीया भिक्षव इदमूचुःपिन्नागपिंडीमवि विद्ध सूले, केइ पएज्जा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं ॥ २६ ॥ अहवावि विभ्रूण मिलक्खु सूले, पिन्नागवुद्धीइ नरं पएजा। कुमारगं वावि अलावु१ आधाकर्मकृतवसतेनिषेधो यस्य स आधाकर्मकृतवसतिनिषेधकः । Eaceaeseseeeeeeeeeeeeeeee dain Education international For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy