SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९५॥ || धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति ॥ २१॥ पुनरपि वणिजां दोषमुद्भावयन्नाह- ६ आका'वित्तेसिणो' इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपनाः, ध्ययन. | तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चेतश्च व्रजन्ति वदन्ति वा । तांस्तु वणिजो वयमेवं ब्रूमो यथैते कामेष्वध्युप-19 पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेषु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः ॥ ॥ | सह साधर्म्यमिति १, दूरत एव निरस्तैषा कथेति ॥ २२ ॥ किंचान्यत्-'आरम्भं सावधानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तमिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके | निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स उदयो लामो यदर्थं ते प्रवृत्ताः यं च सं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तसै-तदर्थ भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति ||॥२३॥ एतदेव दर्शयितुमाह-'णेगंतिणचंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात् , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोऽनैकान्तिकोऽनात्यन्तिकश्चेत्येवं तद्विदो | वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनकान्तिकोऽनात्यन्तिकश्च, ॥३९५॥ यश्चानायेति । यश्च भगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयों लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा । किंभूतो भगवान् ?-'तायी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy