SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ जातिसरणं, चिन्तितं च तेन यथा-ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाकः संजातजातिसरणोऽचिन्तयत्-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानस्तृप्ति भूत् तस्यामीभिस्तुच्छैर्मानुषैः खल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विणकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्यति | अतः पञ्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्च प्रत्र ज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिखा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां | ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरनन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्यै(ममाणय)ष मम भर्नेत्येवमुक्ते सत्यनन्तरमेव तत्सनिहितदेवतया त्रयोद-1 शकोटिपरिमाणा शोभनं वृतमनयेति भणिखा हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सद्युत्थानतो विधृतोऽभिहित 8 च तया यथा एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् , आर्द्रककुमारोऽप्यनुकूलोपसर्ग इतिमखाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं ?, IN कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं-तात ! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तमै यत्संबन्धि हिर| ण्यजातं भवद्भिगृहीतं, ततः सा पित्राऽभाणि-किं त्वं तं जानीषे ?, तयोक्तं-तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थ सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वतैः कदाचिचासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपि dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy