SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः 1136411 अथ षष्ठमध्ययनम् ॥ उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारश्च, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने खरूपमाचाराना चारयोः प्रतिपादितं तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाला सदाचारे प्रयत्नः कार्यों यथाकक्कुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, | तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभय कुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्वे प्रतिपाद्यत इति । निक्षेपत्रिधातत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपद निक्षेपार्थं नियुक्तिकृदाह Jain Education International नामंठवणाअहं दवद्दं चैव होइ भावद्दं । एसो खलु अद्दस्स उ निक्खेवो चडविहो होइ ॥ १८४ ॥ उद्गद्दं सारदं छवियद्द वसद्द तहा सिलेसद्दं । एयं दवद्दं खलु भावेणं होइ रागद्दं ॥ १८५ ॥ एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दवद्दे होंति नायवा ॥ ९८६ ॥ अपुरे अद्दसुतो नामेणं अदओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ॥ १८७ ॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सवज्झयणाई तहा सङ्घक्खरसण्णिवाया य ॥ १८८ ॥ For Personal & Private Use Only ६ आर्द्रका ध्ययन. ॥३८५॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy