SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ ST दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्तिः स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावी | मर्यादाव्यवस्थितः । यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न |ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तदाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तद्दानानुमतावप्यधिकरणोद्भव || इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः सम्यग्दर्शनज्ञानचारि-18 त्रात्मकस्तमुपबृहयेद्-वर्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सावजणवजाणं वयणाणं जो न जाणइ विसेस इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षराह-'इच्चेएहि'मित्यादि, इत्येतरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैर्वासंयमप्रधानः समस्ताध्ययनोक्त रागद्वेषरहितैजिनदृष्टैः-उपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतःसत्संयमवानात्मानं धारयन्-एभिः स्थानैरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजेः गच्छेस्त्वमिति विधेयस्योपदेशः । इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्थमानलक्षणाश्चेति ॥ ३३ ॥ समाप्तमनाचारश्रुताख्यं पश्चममध्ययनमिति ॥ ॥ इति श्रीसूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पश्चममनाचाराध्ययनं समाप्तम् ।। १ सावधानवद्यानां वचनाना यो न जानाति विशेष । Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy