SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ cिeedeceaeeeeeeeeeeeeeeees स्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संबन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिज्जानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन्न वाच्यं, यत उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सवसो तंण भासेजा, भासं अहियगामिणिं ॥१॥"इत्यादि ॥२९॥ अपरमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षत-नित्यमित्येवं न ब्रूयात् , प्रत्यर्थं प्रति| समयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्स लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात् ।। 8 तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत् , सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात , तथा च सति 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा'दिति । तथा सर्व जगहुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्थापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-'तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि?॥१॥" इत्यादि, तथा वध्याचौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्त्वा०अ०७मू०६) एवमन्योऽपि १ अप्रीतिकं यया स्यादाशु कुप्येद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनी ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति-2 सुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुचये इतिवचनात्समुच्चये न वाचं निसृजेत् | | माध्यस्थ्यं च अबलम्बयेत् इति । 90000000000000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy