________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३८३॥
वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन । ५आचारकल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पश्चेन्द्रियत्वविशि
श्रुताध्य. ष्टज्ञानादिसद्भावान्नैकान्तेन तेऽपि पापवन्त इति तस्मात्कथश्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ॥ २८ ॥ तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दृषयितुमाहकल्लाणे पावए वावि, ववहारो ण विजइ । जं वेरं तं न जाणंति, समणा बाल पंडिया ॥२९॥ असेसं अक्खयं वावि, सम्बदुक्खेति वा पुणो । वज्झा पाणा न वज्झत्ति, इति वायं न नीसरे ॥ ३०॥ दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिहिं न धारए ॥ ३१ ॥ सूत्रं |
कल्यं सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, | कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात् , तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । | एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं, तद्यथा-सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र संबन्ध
॥३८३॥ नीयं । तथा वैरं-वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणा:' तीथिका बाला इव रागद्वेषकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org