SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ त्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ १ ॥” इति दृष्टान्तदान्तिकयोरसाम्यात्, तथाहि - ताप्यमानं | जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमा|द्योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्या| देतन्नाशङ्कनीयमिति स्थितम्, प्रज्ञावृद्धेश्व बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवा - कुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तम्- "जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः १ ॥ १ ॥" इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि - सदोपयुक्तस्य | पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहित भिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात्, तथा चोक्तम् - " उच्चालियंमि पाए, "इत्यादि प्रतीतं, तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावाद सिद्धिसद्भावोऽपीति ॥ २५ ॥ साम्प्रतं सिद्धानां स्थाननिरूपणायाह - ' णत्थि सिद्धी त्यादि, सिद्धेः - अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईपत्प्राग्भाराख्यं व्यवहारतो निश्वयतस्तु तदुपरि योजनकोशषड्भागः, तत्प्रतिपादक प्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चाग| मस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि - सिद्धावस्थायां तेषां व्यापि - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy