________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३८२॥
त्वमभ्युपगतमुत प्रागपि १, न तावत्सिद्धावस्थायां तद्व्यापित्वभवने निमित्ताभावात् नापि प्रागवस्थायां तद्भावे सर्वसंसारिणां प्रतिनियत सुखदुःखानुभवो न स्यात् न च शरीराद्वहिरवस्थितमवस्थानमस्ति तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तस्योर्ध्वं गति' रितिकृत्वा भवति, तथा चोक्तम् - "लाउ एरंडफले अग्गी धूमे य उसु धणुविमुके । गइ पुवपओगेणं एवं सिद्धाणचि गईओ || १ ||" इत्यादि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह
त्थ साहू साहू वा णेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेस ॥ २७ ॥
कल्ला पावे वा णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेस ॥ २८ ॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तदभावाच्च तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्व्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, अपि तु अस्ति साधुः सिद्धेः प्राक्साधितत्वात्, सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्वैव, तथाहि - सम्यग्दृष्टेरुपयुक्तस्यारतद्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेपणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, १ अलाबुकैरण्डफलाभिधूमेषु धनुर्मुक्त इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
५ आचारश्रुताध्य.
।। ३८२ ॥
www.jainelibrary.org