________________
यणात्प्रत्येक पक्षाश्रितदोपानुपपत्तिरिति एवं चास्ति प्रीतिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ॥ २२ ॥ साम्प्रतं कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाह
णत्थि चाउरंते संसारे, णेवं सन्नं निवेसए । अत्थि चाउरंते संसारे, एवं सन्नं निवेस ॥ २३ ॥
थि देवो व देवी वा, शेवं सन्नं निवेसए । अस्थि देवो व देवी वा, एवं सन्नं निवेस ॥ २४ ॥ सूत्रं चत्वारोऽन्ता - गतिभेदा नरकतिर्यङ्गनरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात् स च चतुविधोऽपि न विद्यते, अपितु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यङ्मनुष्ययोरेव सुखदुःखोत्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणान्त्वनेकविधः, अतश्वातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् । यत्तूक्तम् - एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यमनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, संभवानुमानं तु - सन्ति पुण्यपापयोः प्रकृष्टफलभुजः, तन्मध्यफलभुजां तिर्ययनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमितिः, तदस्तित्वे तु प्रकृष्टपुण्यफलभुज |इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्तं, यतः सप्तपृ|थिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यञ्चोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org