SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ वेदनानिर्जरे च क्रियाक्रियायत्ते, ततस्तत्सद्भाव प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह-क्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता क्रिया, ते | द्वे अपि 'न स्तो' न विद्यते, तथाहि-सांख्यानां सर्वव्यापिखादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु| क्षणिकखात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तद्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्-"भू-18 | तिर्यैषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियखमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत् , किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् , तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्ति18|| निमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रिय चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षायभावः, || स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः १, अपि च-एकान्तेन क्रियाऽभावे | संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति ॥१९॥ तदेवं सक्रियात्मनि सति क्रोधा-18 दिसद्भाव इत्येतद्दर्शयितुमाह णत्थि कोहे व माणे वा, णेवं सन्नं निवेसए । अस्थि कोहे व माणे वा, एवं सन्नं निवेसए ॥२०॥ ___णत्थि माया व लोभे वा, णेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥२१॥ णत्थि पेजे व दोसे वा, णेवं सन्नं निवेसए । अत्थि पेजे व दोसे वा, एवं सन्नं निवेसए ॥ २२॥ सूत्रं खपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथै& तावद्भेद एव मानो गर्वः, एतौ द्वावपि 'न स्तो' न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य | aeaenese ese eneseaeaeoeoeoeoes Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy