SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ शब्दौ संबन्धिशब्दौ संबंधिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुं, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिदृष्टा, नियतिखभावादिवादस्तु नष्टोत्तराणां पादनसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्य तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् । पुण्यपापे चैवरूपे, तद्यथा-"पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दि| ष्टम् ॥१॥” इति ॥१६॥न कारणमन्तरेण कार्यस्योत्पत्तिरत: पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तनिरोधः संवरः, एतौ द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत् , तदभावप्रतिपत्त्याशङ्काकारणं खिद-कायवाड्मनःकर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव–'उच्चालियंमि पाए'इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः ?, यदि भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवखं, सिद्धात्मनामपि आश्रवप्रसङ्गात् , तदभावे च तनिरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकलं कायव्यापारस्य 'उच्चालयंमि |पाए' इत्यादिनोक्तं तदसाकमपि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य खस्त्येव कर्म|बन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तनिरोधश्च संवर इति, उक्तं च-"योगः १ उच्चालिते पादे इरियासमियस्स संकमाए । वावजिन कुलिंगी मरिज तं जोगमासज्ज ॥१॥ न य तस्स तण्णिमित्तो बंधो सुहुमोऽवि देसिओ समए । अणवज्जो उ पओगेण सा उ पमादोत्ति निद्दिट्ठा ॥२॥ dain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy