________________
आहोखिद्विद्यमानं ?, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवखम् । तथाऽत्माद्वैतवाद्यपि वाच्यः-यदि पुरुषमात्रमेवेदं सर्व कथं घटपटादिषु चैतन्यं नोपलभ्यते ?, तथा तदैक्येऽमेदनिबन्धनानां पक्षहेतुदृष्टान्तानामभावात्साध्यसाधनाभावः, तसाचैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्थाद्वादाश्रयणाजीवः स्थाजीवः स्यादजीवः अजीवोऽपि च स्यादजीवः स्वाज्जीव इति, एतच्च स्थाद्वादाश्रयणं जीवपुद्गलयोरन्योऽज्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपल-18| म्भाद्रष्टव्यमिति ॥ १३ ॥ जीवास्तिखे च सिद्धे तनिबन्धनयोः सदसत्क्रियाद्वारायातयोर्धर्माधर्मयोरस्तिनप्रतिपादनायाह
त्थि धम्मे अधम्मे वा, णेवं सन्नं निवेसए । अत्थि धम्मे अधम्मे वा, एवं सन्नं निवेसए ॥१४॥ णस्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए ॥ १५॥ (सू० 'धर्मः' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम् , एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकपाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधौं कालखभावनियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञां नो निवेशयेत्-कालादय एवाय सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम्-"न हि कालादीहिंतो केवलएहितो जायए किंचि । इह मुग्गरंधणाइवि ता सो समुदिया हेऊ ॥१॥"इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः सम्यग्दर्शनादिकोऽधर्मश्च
१ अभेदसिद्धिनिबन्धनानां । भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः । २ नैव कालादिभ्यः केवलेभ्यो जायते किंचिदपि । इह मुद्गरन्धनाद्यपि ततः सर्वे IN समुदिता हेतुः ॥ १ ॥ ३ नारकलादिविशिष्टजीवनिबन्धनयोः बहुमीहिर्वा ।
Feeeeeeeeeeeeeees
dan Education International
For Personal & Private Use Only
www.jainelibrary.org