SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३७७॥ त्प्रतिषेधकोऽपि नास्तीत्यतस्तदभावात्प्रतिषेधाभावः, अपि च-सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्रजालादिव्यवस्था, अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति । । अपिच -- “ सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सिद्ध्यति । साऽस्ति वेस्सैव नस्तयं, तत्सिद्धौ सर्वमस्तु सद् || १ ||" इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन, तन्मतं स्वेवंभूतं, तद्यथा - नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्त विकल्पदोषानुपपत्तिरित्यतः कथचिल्लोको - ऽस्त्येवम लोकोऽपीति स्थितम् ॥ १२ ॥ तदेवं लोकालोकास्तिलं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह'णत्थि जीवा अजीवे' त्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्त्तनालक्षणा न विद्यन्त इत्येवं संज्ञां - परिज्ञानं नो निवेशयेत्, नास्तित्वनिबन्धनं खिदं - प्रत्यक्षेणानुपलभ्यमानखाजीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । | तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं मिं सर्व' यद्भूतं यच्च भाव्य' मित्यागमात् तथां अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्र विवर्त्तत्वात् नो एवं संज्ञां निवेशयेत्, किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनैभूतः खसंवित्तिसिद्धोऽहंप्रत्ययग्राह्यः, तथा तद्वयतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाण ज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानां भूतचैतन्यवादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?, यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्न कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते १ सर्व वस्तु प्र० । २ पक्षाभ्युच्चये । ३ विवर्त्ति० प्र० । ४ नरूपः प्र० । Jain Education International For Personal & Private Use Only ५ आचारश्रुताध्य. 1120011 www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy