SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ तीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः ?, युक्तिरप्यत्र-संबन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारसाप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति॥५॥ । अधुना चारित्राचारमङ्गीकृत्याहIS जे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसं तेहिं वेरंति, असरिसंती य णो वदे ॥६॥ _एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥७॥ (सूत्रं) ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः-शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं | | 'वैर'मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं समानं तुल्यप्रदेशवात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् , तथा 'विसह शम्' असदृशं तद्वयापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशखात् सत्यपि प्रदेशतुल्यते न सदृशं वैरमित्येवमपि नो वदेत् , यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव |बन्धः अपि खध्यवसायवशाइपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसवव्यापादनेऽपि महद्वैरम् , अकामस्य तु महाकायसत्त्वव्या पादनेऽपि स्वल्पमिति ॥ ६॥ एतदेव सूत्रेणैव दर्शयितुमाह-आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहा| कायव्यापादनापादितकर्मबन्धसदृशखासदृशखयोर्व्यवहरणं व्यवहारो नियुक्तिकखान्न युज्यते, तथाहि-न वध्यस्य सदृशखमसदृशवं १ अत्र हि हखदीर्घत्ववदू घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोधः । D000000002809000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy