________________
तथा चोक्तम्- "घटमौलिसुवर्णा, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥१॥ इत्यादि । तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥३॥तथाऽन्यमप्यनाचारं प्रतिपेझुकाम आह
समुच्छिहिंति सत्यारो, सवे पाणा अणेलिसा । गंठिगा वा भविस्संति, सासयंति व णो वए ॥४॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजइ । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥५॥ (सूत्रं)
सम्यक-निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत-प्राबल्येन सेत्स्यन्ति वा सिद्धि यास्यन्ति, के ते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्तिं चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा-| | कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तब्धयोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत , तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत् , यदिवा| सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीदृशा' अभव्या एव भवेयुरित्येवं च नो वदेत् , युक्ति चोत्तरत्र वक्ष्यति ।
| तथा कात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं 18| भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा-'ग्रन्थि
का' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत् , तथा 'शाश्वता' इति शास्तारः | 'सदा' सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवा-16
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org