________________
Desesee
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३७२॥
नित्यमित्येवानित्यमेव वैताभ्यां द्वाभ्यास, तथाहि-अप्रच्युतानुत्पत्तः, आमुष्मिकेऽपि नित्य
लम्ब्य धर्माधर्माकाशादिष्वनादिखमपर्यवसानख चोपलभ्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं 'न धारयेदिति एवं पक्षं न समा-18 ५आचारश्रयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्च सूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभि- श्रुताध्य. प्रायेण च सर्वमशाश्वतम्-अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति ॥२॥ किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्वित्येवंभूतां दृष्टिं न धारयेदित्याह–सर्व नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहरणं | व्यवहारो-लोकस्सैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्व नित्यमित्येवं न व्यवहियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात् , तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेपि नित्यखादात्मनो बन्धमोक्षायभावेन दीक्षायमनियमादिकमनर्थकमिति ने व्यवहियते । तथैकान्तानित्यखेपि लोको धनधान्यघटपटादिकमनागतभोगार्थं न संगृह्णीयात् , तथाऽऽमुष्मिकेपि क्षणिकखादात्मनः प्रवृत्तिन स्यात् , तथा च दीक्षाविहारादिकमनर्थक, | तस्मान्नित्यानित्यात्मके एव स्याद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोनित्यानित्ययोः स्थानयोरेकान्तखेन समाश्रीयमाणयोरैहि| कामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात् , तुशब्दो विशेषणार्थः, कथश्चिन्नित्यानित्ये वस्तुनि सति | |व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंशमाश्रित्य स्थानित्यमिति भवति, तथा विशेषांशं प्रतिक्षणमन्यथा| च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययध्रौव्याणि चाहद्दर्शनाश्रितानि व्यवहाराङ्गं भवति । ॥३७२॥
१ प्रध्यसरूपोऽभावः, तेन तद्रूपेणेत्यर्थः, ईर्यया साधुरितिवद् प्रकृत्या चार्वितिवद्वा तृतीया । २ अनर्थकतया निवृत्तिरूपफलदतया । ३ सामान्यांशापेक्षया नपुं० । ४ विशेषांशापेक्षया पुंस्त्वं । ५ भवन्ति ( विधेयतोत्पादादीनां)प्र. ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org