________________
toercedesesekesekcecenercecene
प्रज्ञः-सर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगिखात्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि नाचरेदितिश्लोकार्थः ॥१॥ तत्रानाचारं नाचरेदित्युक्तम् , अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्ज-| रामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यखभावं, सामान्य विशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वमिति, ज्ञानं तु मतिश्रुताव धिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीयमूक्ष्मसंपराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीदृशं जगदितिकृखानाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यों यथावस्थितलोकस्वरूपोद्घट्टनपूर्वकमाह
अणादीयं परिन्नाय, अणवदग्गेति वा गुणो । सासयमसासए वा, इति दिहि न धारए ॥२॥ (सूत्रं) एएहिं दोहिं ठाणेहि, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ३॥ (सूत्रं) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्य धर्माधर्मादिकस्य वा द्रव्यस्यादिः-प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्य तथा 'अनवदग्रम् ' अपर्यवसानं च परिज्ञायोभयनयात्मकव्युदासेनैकनयदृष्ट्याऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं स्वदर्शने चानुयायिनं सामान्यांशमव१ प्रमाणरूपत्वान्मौनीन्द्रागमस्योभयनयात्मकता । २०त्मकं प्रत्ययः, प्रत्ययं ज्ञानं, प्रतीत्यस्य चाध्याहारः । ३ मिथ्यात्वकारणकं । ४ अर्वतारूपं ।
Macratsemesedeoeseseseseeeee
dan Education International
For Personal & Private Use Only
wwwane brary.org