________________
थाऽदत्तादाप वाच्यं, तवशेषप्रतिक्षेति.
शथा-एवं खल्वहं पइभिरपि जीवनिकायः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु पदस्वपि जीवनिकाये
वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकमा भवति, एवं मृपावादेऽपि वाच्यं, तद्यथा-इदं मया वक्तव्यमनृतमीहरभूतं तु न वक्तव्यं, स च तस्मान्मृपावादादनिवृत्तखादसंयतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यं, तद्यथा-इदं मयाऽदत्तादानं ग्राह्यमिदं तु न ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतखातत्प्रत्ययिक कर्माश्रवति, तथा चासावविरतिप्रत्ययिकं कर्म चिनोतीति, एवं देशकालस्वभाव विप्रकृष्टेष्वपि जन्तुष्वमित्रभूतोसौ भवति तत्प्रत्ययिकं च कर्माचिनोतीति, सोऽयं संज्ञिदृष्टान्तोऽभिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिवावेवं त्रिकादिकाः संयोगा भणनीया यावत्सर्वानपि व्यापादयतीति । स चैवं सर्वेषां व्यापादकखेन व्यवस्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तयोग्यतया तद्घातक इत्युच्यते, इत्येवं दाष्टोन्तिकेऽप्यायोज्यम् ॥ संज्ञिदृष्टान्तानन्तरमसंझिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संझिनरतत्प्रतिषेधादसंज्ञिनो मनसो ;व्यताया अभावात्तीबातीवोध्यवसायविशेषरहिताः प्रसुप्तमत्तमूञ्छितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा-पृथिवी| कायिका यावद्वनस्पतिकायिकाः, तथा पष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूञ्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो येषां नो 'तो' विचारो मीमांसा विशिष्टविमों विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयं
१ कर्तव्याकर्तव्यभेदानपेक्ष्य बहुत्वं । २ व्यापारयति प्र० । ३ न प्रवृत्तः । ४ उपयोगस्य भावमनोरूपतास्वीकारात्, स चास्ति तेषां । ५ तीनाः संझिपर्याप्तकस्वोत्कटयोगिनः अतीमस्तु सूक्ष्मसंपरायाणां । ६ गुणदोषान्वेषणपुरस्सरः ॥
20292020289209283929
Jain Education International
For Personal & Private Use Only
www.janelibrary.org