________________
इति । कथमेते पडू जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु पडजीवनिकायेषु प्रतिहतं
विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा| ६ तद्भावखादेव नित्यं-सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते-प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतु
खाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह-'तंजहे'त्यादि, तद्यथा प्राणातिपाते विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेपामिहकेन्द्रियविकलेन्द्रियादीनामनिवृत्तखान्मिथ्याखाविरतिप्रमादकषाययोगानुगतलं द्रष्टव्यं, तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते | यत्प्रागुक्तं परेण यथा-नाव्यक्तविज्ञानानामनताममनस्कानां कर्मबन्ध इत्येतत् प्लवते ॥ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्त|माह-'तत्थ खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिनिमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा, अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः, स च वधपरिणामपरिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह-खणं निदाय' १ योग्येऽवसरे। २ अपायस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org