SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३६४॥ | इत्यादि, क्षणम्-अवसरं "णिहाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं । ४प्रत्या| छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा ख्याना० | विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचि- अविरतस्य | कालमुदास्ते, स च तत्रौदासीन्यं कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तसिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि पापबन्ध: यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैयोगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पटविज्ञाना अपि मिथ्याखाविरतिप्रमादकपाययोगानुगतखात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चखारो भङ्गाः, तद्यथा-18 वध्यस्यानवसरो १ वधकस्य च २ उभयोऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति-'अप्पण्णो अक्खणयाए | तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तया मे स पुरिसे | अवस्सं वहेयत्वे भविस्सइ, एवं मणो पहारेमाणे'त्ति मूत्र, निगदसिद्धम् ॥ साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थे परप्रश्नपूर्वकमाविभावयन्नाह-से किं नु हु'इत्यादि, आचार्यः खतो हि निर्णीतार्थोऽयया परं पृच्छति-किमिति परप्रश्ने, नुरिति वितके हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयनहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' ॥३६४॥ | गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नेति ?, एवं पृष्टः परः समतया १ कश्चित्कारणकोपाद्वधपरिणतोऽप्या०प्र० । २ परचित्तस्था याऽसूया-यथार्थेऽयथार्थतोद्भावनरूपा तया हेतुभूतया । dain Education international For Personal & Private Use Only www.jainelibrary.org.
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy