________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥३६३॥
कर्म न बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत् । 'कैस्य हेतोः ?' केन हेतुना केन कारणेन तत्पापं कर्म बध्यते ?, नात्र कश्चिद व्यक्तविज्ञानखात्पाप कर्मबन्धहेतुरिति भावः । तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण 'मित्यादि, कर्माश्रवद्वारभूतैर्मनोवाक्कायकर्मभिः कर्म बध्यत इति दर्शयति - अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसा वाचा कायेन च तत्प्रत्ययिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह - मतस्सत्त्वान्समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपि पश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म बध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्कायव्यापारस्याभावात्, अथैतद्व्यापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मबन्धः स्यात्, न चैतदिष्यते, तस्मानैवमस्वप्नान्तिकमविज्ञोपचितं च कर्म बध्यत इति, तंत्र यदेवंभूतैरेव मनोवाक्कायव्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः तद्यथा - अविद्यमानैरेवाशुभैर्योगेः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् ॥ तदेवं चोदकेनाचार्यपक्षं दूषयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'मित्यादि, यदेतन्मयोक्तं प्राग् यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक् - शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह'कस्य हेतोः ?' केन कारणेन तत्सम्यगिति चेदाह - 'तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थं खलुशब्दो वाक्यालङ्कारे भगवता वीरवर्द्धमानखामिना पड़ जीवनिकायाः कर्मबन्धहेतुखेनोपन्यस्ताः, तद्यथा - पृथिवीकायिका इत्यादि यावत्रसकायिका १ नोदकस्यैव वाक्यं प्रज्ञापकं प्रति । २ नोदकपक्षे । ३ यद्येवं० प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात् । ४ स्पष्टविज्ञानयुक्तैः । ५ आचार्य वाक्यमिदं पूर्वपक्षे हेतुदर्शनाय ।
Jain Education International
For Personal & Private Use Only
४ प्रत्या
ख्याना०
अविरतस्य पापबन्धः
॥३६३॥
www.jainelibrary.org