________________
Debese
सयाज तिमि ॥ ( सूत्रं ३२ ) ॥ वियसुयक्खंधस्स आहारपरिण्णा णाम तईयमज्झयणं समत्तं ॥
अथापरमेतदाख्यातं, तद्यथा - सर्वे 'प्राणा:' प्राणिनोऽत्र च प्राणिभूतजीवसत्वशब्दाः पर्यायत्वेन द्रष्टव्याः कथञ्चिद्भेदं वाssश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्द्वारायाततत्कर्मवशगा नारकतिर्यङ्गनरामरगतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति - यो याहि भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति ॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह - यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा - यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारा - गुप्तश्च कर्मादते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा सर्वकालं यावदुच्छ्रासं तावद्यतेत - सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति । | इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः ते च प्राग्वद् द्रष्टव्याः ॥ समाप्तमाहारपरिज्ञाख्यं | तृतीयमध्ययनम् ॥ ३ ॥
इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात्
Jain Education International
For Personal & Private Use Only
Caesa
www.jainelibrary.org