________________
सूत्रकृताङ्ग अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारम्भः ॥
४ प्रत्या२ श्रुतस्क-10
ख्यानाध्य. न्धे शीला-18 कीयावृत्तिः तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोत्र
तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थं शुद्धतराहारविवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रि॥३६०॥
| यासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा-इह कर्मोपादानभूतस्याशुभस्य प्रत्याख्यानं प्रतिपा-13 द्यत इति । साम्प्रतं निक्षेपः, तत्राप्योपनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थ नियुक्तिकृदाह
णामंठवणादविए अइच्छ पडिसेहए य भावे य । एसो पञ्चक्खाणस्स छविहो होइ निक्खेवो ॥ १७९ ॥ मूलगुणेसु य पगयं पचक्खाणे इहं अधीगारो । होज हु तप्पच्चइया अप्पच्चक्वाणकिरिया उ ॥ १८०॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं पोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु
॥३६०॥ द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातु
Jain Education
or
For Personal & Private Use Only
www.janelibrary.org