SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ A वा 'अणुसूयत्ताए'त्ति अपरशरीराश्रिततया परनिश्रया विवर्तन्ते समुत्पद्यन्ते इतियावत् , ते च जीवा विकलेन्द्रियाः सचित्तेषु । | मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते,तथा तत्परिभुज्यमानेषु मश्चकादिष्वचित्तेषु मत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु मनुष्यादिशरीरकेषु विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन-परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरे तु सचित्ते तेजाका| यादौ मूषिकादित्वेनोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावूष्मणा संखेदजा जायन्ते, तथोदके पूतरकाडोल्लणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो % जायन्ते । तदेवं ते जीवास्तानि स्वयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति ॥ साम्प्रतं पञ्चेन्द्रियमूत्रपुरीपोद्भवानसुमतः प्रतिपादयितुमाह-'एव'मिति पूर्वोक्तपरामर्शः, यथा सचित्ताचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मूत्रपुरीपवान्तादिषु अपरे जन्तवो दुष्टं-विरूपं रूपं येषां कृम्यादीनां ते दुरूपास्तत्संभवत्वेन-तद्भावेनोत्पद्यन्ते, ते च तत्र विष्ठादौ देहानिर्गते निर्गते वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्खयोनिभूतमाहारयन्ति, शेषं प्राग्वत् ॥ साम्प्रतं सचित्तशरीराश्रयान् | जन्तून् प्रतिपादयितुमाह–'एवं मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यकशरीरेषु 'खुरदुगत्ताए'त्ति चर्मकीटतया समुत्पधन्ते, इदमुक्तं भवति-जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः प्राणिनः संमूच्छर्यन्ते, ते च तन्मांसचर्मणी भक्षयन्ति, भक्षय न्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा ४. सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटकाः संमूच्छर्यन्ते, ते च तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति । साम्प्रतमपूकार्य प्रतिपि8 पादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह Coceeeeeeeeeeeeeeeeeeeeeeeek Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy