SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ | चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समय उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां खन्तमुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं ॥ साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति-ज्योतिः-तेजस्तदेव तत्र वा भवं तेजसं | तेन कार्मणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, || ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ खौदारिकेण वक्रियण वाऽऽहा रयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिक्षेति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्तिः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सवावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिजंति, तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणा 992989050899002020 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy