________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४६॥
३आहारपरिज्ञायां केवलिनो भुक्तिः
यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनान्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिपहाः, तेषां चमध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभ| वो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिपहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽक्रोशयाजासत्कारपुरस्काराः, | एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात , न हि कारणाभावे कचित्कार्योपपत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात , ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृण| स्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अत: | केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विहलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडाम|धिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वतेते, यथा खभावेनैव प्रखेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकखादपकर्णनीयम् । अपि च-केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम् , अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितवादभ्युपगममात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोपि, तथाहि-तैजसशरीरेण मृद्कृतस्याभ्यवहतस्य व्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण शुदुद्भवो भवति । वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तकिमर्थमसौ न भुले , न च घाति१ दीर्घकालस्थितिदर्शनाय । २ विशेषणार्थः । ३ शरीरादिरूपः ।
॥३४६॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International