SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ विकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽजवभावेण, लोभं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रती तैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्-"काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करि॥ ष्यामि, ततो मे न भविष्यसि ॥१॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतो मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकखभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा| ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततेषो भुक्तिः?॥१॥ तदेतत् प्लवते, यतश्छमस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ?, तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, तदयुक्तं, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यायेन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थिते-18 रायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रि| यापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किञ्चिदेतत् । अपि च-एकादश परीषहा, | वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साध-15 १ उपशमेन हन्यात क्रोधं मानं माईवतया जयेत् मायां चार्जवभावेन लोभं सन्तोषतो जयेत् ॥ १ ॥२ मोहरहितस्य, आकाङ्काया मोहरूपत्वात् । eeeeeeeeeeeeeeeek Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy