SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ See ३ आहारपरिज्ञा सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४४॥ वोपलभ्यते धातुभावन(च) प्रयाति स लोमाहार इति ॥ साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमा| वन्ना केवलिणो समुहया अयोगी या । सिद्धा य अगाहारा सेसा आहारगा जीवा ॥१॥' अस्सा लेशतोऽयमर्थः-उत्पत्तिकाले | विग्रहगतौ-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु | जीवा आहारका इत्यवगन्तव्यं, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन | वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये खवक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयोत्पत्तिश्चैवं भवति-सनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वा गमनं, तृतीयेन च बहिनिःसरणं, चतुर्थेन तु विदिक्षुत्पत्तिदेशे प्राप्तिरिति । | पञ्चसमया तु त्रसनाड्या बहिरेव विदिशो विदिक्षुत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम् , आद्यन्तसमययोस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात तृतीयचतःपश्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु आदारिकतन्मिश्रशरीरवर्तिखादाहारक इति । 'मुहत्तमद्धं च'त्ति अन्तर्महतं गृह्यते. तच्च केवली स्वायुषःक्षये सर्वयोगनिरोध सति इखपश्चा|क्षरोद्विरणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्त शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहा-| रका इति ॥ साम्प्रतमेतदेव स्वामिविशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति ।। १ उपलक्षणात्पूर्णतासंहरणयोः २ ततोऽर्वाक् , सामीप्ये च सप्तमी । eaceaelatestaeseseserotice ॥३४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy