________________
विर्भावयन्नाह-यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्यासास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजसेन कामणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तत्प्रदेशस्थानात् (स्थान्) पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोजआहार इति, पर्याप्तकास्त्विन्द्रिया-|| दिभिः पर्याप्तिभिः पर्याप्ताः केपांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्त्युत्तरकालं लोमाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदेवेति, स च लोमाहारश्चक्षुष्मताम्-अर्वाग्दृष्टिमतां न दृष्टिपथमवतरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा-देवकुरूत्तरकुरु (वादि) प्रभवा अष्टमभक्ता(द्या)हाराः, संख्येयवर्षायुषामनियतकालीयः प्रक्षेपाहार इति॥साम्प्रतं प्रक्षेपाहारं स्वामिविभागेन दर्शयितुमाहएकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रिया:-पृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपः, ते हि पर्याप्युत्तरकालं स्पर्श-18 न्द्रियेणैवाहारयन्तीतिकृखा लोमाहाराः, तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेन परिणमन्ति नारकाणां त्वशुभा इति, शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तिर्यमनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानां कायस्थितेरेवाभावात्प्रक्षेपमन्तरेण, कावलिक आहारो जिह्वेन्द्रियस्य सद्भावादिति, अन्ये त्वाचायाँ अन्यथा व्याचक्षते-तत्र यो जिहेन्द्रियेण स्थूल: शरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणे| १ वायुस्पर्शालोमाहारस्य सार्वदिकत्वात् , विग्रहादी व्यभिचारवारणाय प्रायश इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org