________________
900082908290000000000000000202
इत्येतेषु द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतार्यते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुन मुश्चन्ति न च मोक्ष्यन्ते, तथा न निर्वृता न निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुर्न पुनर्यान्ति न च यास्यन्तीति ॥ साम्प्रतं त्रयोदशं क्रियास्थान | धर्मपक्षाश्रितं दर्शयितुमाह-एतसिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीति यावत्सर्वदुःखानामन्तं
करिष्यन्तीति स्थितं । तदेवं स भिक्षुर्यः पौण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे |स्थित उपशान्त आत्मना आत्मनो वाऽर्थः आत्मार्थः स विद्यते यस्य स तथा, यो ह्यन्यमपायेभ्यो रक्षति स आत्मार्थ्यात्मवानि-| |त्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयं खात्महित ऐहिकामुष्मिकापायभीरुखात् , तथाऽऽत्मा गुप्तो यस्य स तथा, एत| दुक्तं भवति-खयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः-कुशलमन:प्रवृत्तिरूप आत्मयोगः स ||* यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तखादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं २ | विधत्त इति, तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकानिःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रि| यास्थानेभ्यः प्रतिसंहरेत् , यदिवोपदेशः-आत्मानं सर्वापायेभ्यः प्रतिसंहियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभा| व्यत इति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नयाः पूर्ववद्याख्येयाः । समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति ॥ | १ कर्त्तरिप्रयोगे आद्यद्वये कर्मण इत्यध्याहारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org