________________
कालेऽनेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावद्यभाषिणो भविष्यति काले जातिजरामरणानि बहुनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपञ्चान्तर्गतास्तेजोवायुपूच्चैर्गोत्रो
द्वलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं ९ कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामाभा-10 &| गिनो भविष्यन्तीति । किं बहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंवन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादि-18॥
रस्तीत्यनादिः-संसारः, तदनेनेदमुक्तं भवति यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवद-18 ग्रं-पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्व मिथ्येति, 'दीर्घ' मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो । यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः सभयत्राणरहितोऽरण्यप्रदेशः कान्तार इति । | तदेवंभूतं 'भूयो भूयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह-यतस्ते || प्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद् , एतदपि कथमिति चेदन्ततः औदेशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमि-13 त्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति-नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्या भोत्स्यन्ते, | अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृतिः | परिनिर्वाणं-आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसानां
02020000000000000002029292020
परः, कुनै एतापानापन्येनानुपरिवतियान्तारः संसारकान्तारो, नवतरूपकालावस्थान,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org