SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥ ३३ ॥ अहिअप्पा हियपणाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥ ९ ॥ स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं - बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा - विषमान्ते—– कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपा| शादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं ' विनाशं 'नियच्छति' प्राप्नोतीति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्श्य | सूत्रकार एव दार्शन्तिकमज्ञानविपाकं दर्शयितुमाह एवं तु समणा एगे, मिच्छदिट्टी अणारिआ । असंकिआई संकंति, संकिआई असंकिणो ॥१०॥ एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एकें न सर्वे, किंभूतास्ते इति दर्शयति - मिथ्या - विपरीता दृष्टिर्येषामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्याः' आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतत्वादसदनुष्ठायिन इतियावत् । अज्ञानावृतखं च दर्शयति'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयणानि, अशङ्किनो मृगा इव मूढचेतसस्तत्तदाऽऽरभन्ते यद्यदनर्थाय संपद्यन्त इति ॥ १० ॥ शङ्कनीयाशङ्कनीयविपर्यासमाह - १० तेऽणुवायए इति पाठमाश्रित्य । Jain Education onal For Personal & Private Use Only १ समया उद्देशः २ नियतिवा दिमतं ॥ ३३ ॥ ainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy